यज्ञपुरुषस्य जिह्वास्थानानि विज्ञाय होतव्यम् अज्ञात्वा होमे दोषस्मरणात्--तदाह सङ्ग्रहकारः
यत्र काष्ठं तत्र कर्णौ हुनेच्चेद्व्याधिकृन्नरः । धूमस्थाने शिरः प्रोक्तं मनोदुःखं भवेदिह ।। यत्राल्पज्वलनं नेत्रं यजमानस्य नाशनम् । भस्मस्थाने तु केश: स्यात्स्थाननाशो धनक्षयः ॥ अङ्गारे नासिकां विद्यान्मनोदुःखं विदुर्बुधाः । यत्र प्रज्वलनं तत्र जिह्वा चैव प्रकीर्तिता । गजवाजिप्रणादे तु वह्निः शुभफलप्रदः। इति।।(अन्यच्च)यत्र काष्टमिदं कर्णौ यत्र धूमस्तु नासिका । काष्ठमल्पज्ज्वलन्नेत्रं ज्वलनं मूर्ध्नि विन्यसेत् ।। प्रज्वाला वह्निजिह्वायामेतद्धोमस्य लक्षणम् । अग्नौ कर्णाहुतिः कुर्याद्दुर्भिक्षव्याधिपीडनम् ।। नासिकायां मनोदुःखं चक्षुषी ग्रामनाशनम् । मूर्ध्नि स्थाने शुभं कुर्याद्राजा राष्ट्रे विनश्यति ॥ तस्मात्सर्वप्रयत्नेन जिह्वायां होममाचरेत् ।। जिह्वास्थानं तु न ज्ञात्वा होमं यः कुरुते द्विजः । स होमो निष्फलं याति यदि होमस्य दुर्गतिः।। इति||