Monday, August 17, 2020

अथ कुमारिलभट्टस्वामि कारिकाः


कुर्वीत पार्वणश्राद्धं दर्शे तदभिधीयते ।
कामयोगेन वान्यस्यां तिथावित्यपरेऽब्रुवन् ॥ १
ब्राह्मणान्वेदसंपन्नान्दान्ताञ्शान्तानलोलुपान् ।
अक्रोधानानरोगांश्च पाखण्डकुलनिःस्पृहान् ॥ २
एवंविधद्विजाभावे सतैकेन गुणेन वा ।
युक्तान्निमन्त्रयीतार्हानसद्गुणविवर्जितवान् ॥ ३
विहितानामधिष्ठातॄन्निषिद्धानां च वर्जकान् ।
शुचीन्निमन्त्र्य दैवे द्वौ त्रीन्विप्रान्पितृकर्मणि ॥ ४
दैवे पित्र्येथवेकैकं सपिण्डीकरणं विना ।
सायमौपासनं हुत्वा सायं भुक्तवतो द्विजान् ॥ ५
उपगम्य स्वयं शिष्यःसुतो वा श्रद्धयान्वितः।
श्राद्धं श्वो भविता तत्र भवद्भिर्दीयतां क्षणः ॥ ६
एवं निमन्त्र्य नियतो मनोवा,य कर्मभिः ।
         भोक्तुर्भोजयितुश्चैव ब्रह्मचर्यमतःपरम् ॥७
कृताह्निकःपरेद्यस्तु प्रविशेच्चाग्निवेश्मसु ।
ततःसंकल्प्य विधिवत्प्रारभेत्सुसमाहितः ॥ ८
कृत्वेत्माधानपर्यन्तं पितृयज्ञमथद्विजान् ।
तान्स्नातान्कृतपच्छौचानाचान्तान्तानुपवेशयेत् ॥ ९
द्विराचामन्ति ते विप्राःकर्त्रा प्रक्षालिताङ्घ्र्यः।
द्वौ दैवे प्राङ्मुस्वौ पित्र्ये त्रीन्विप्रानुदगाननात् ॥ १०
ध्यायन्ममैते पितर इति तानुपवेशयेत् ।
अर्चयित्वोपविष्टौ तु दैवे स्मृत्युक्तमार्गतः॥११
ये पक्षाःकथिताःपिण्डयज्ञे जीवमृतान्प्रति ।
श्राद्धेऽपि वेदितव्यास्ते पक्षाःइत्याह वृत्तिकृत् ॥१२
प्राचीनावीत्यपो दत्वा  पितृकर्माप्रदक्षिणम् ।
दर्भान्द्विगुणभुग्नांस्तु दत्वैषामासनेष्वथ ॥१३
अपो दत्वाथ दर्भेषु पात्राण्यासादयेत्क्रमात् । 
         तैजसेऽस्ममये पात्रे मृण्मयेऽन्तर्हिते कुशैः॥१४
एकद्रव्येषु चाग्नेयीदिक्संस्थेषु च तेष्वथ ।
निषिच्यापोऽनुमन्त्र्यर्चा शंनोदेवीरभिष्टये ॥ १५
अनुमन्त्रःसकृत्कार्यःतिलोऽसीत्यावपेत्तिलान् ।
आवृत्तिःप्रतिपात्रं स्यान्मन्त्रस्योहस्तु नेष्यते ॥१६
गन्धपुष्पाणि चैतेषु पात्रेषु प्रक्षिपेदथ ।
स्वधार्घ्या इत्यपोर्घ्यास्ता उपवीति निवेदयेत् ॥१७
अन्या आपःप्रदातव्या विप्रपाणिष्वतःपरम् ।
अर्घ्यं सशेषमादाय दक्षिणेन तु पाणिना ॥ १८
सव्यहस्तगृहीतेन निनयेत्पितृतीर्थतः।
त्रिभिःपितरिदं  तेऽर्घ्यमिति पाणिष्वनुक्रमात् ॥१९
दत्वा दत्वा निनीतास्ता या दिव्यास्तानुमन्त्र्य तु ।
पितृपात्रे प्रसिच्यार्घ्यं शेषं पात्रद्वये स्थितम् ॥२० 
अनक्ति पुत्रकामस्तैर्मुखमेकीकृतैःजलैः। 
         न्यग्बिलं पितृपात्रं स्यादासमाप्तेस्तु कर्मणः॥२१
उत्तानं वा तृतीयेन पिहितं तन्न चालयेत् ।
प्राचीनावीत्यथेदानीं गन्धमाल्यं सधूपकम् ॥२२
दीपं वस्त्रं यथाशक्ति देयं वार्यन्तरान्तरा ।
पितृयज्ञचरोरन्नं  उद्धृत्याभ्यज्य सर्पिषा ॥२३
अग्नौ करिष्य इत्येतान् पृष्ट्वोक्तःक्रियतामिति।
मेक्षणानुप्रहृत्यन्तं पितृयज्ञं करोत्यथ ॥ २४
अन्नेषु परिविष्टेषु हुतशेषं ददात्यथ ।
उद्दिश्य चान्नं विश्वेभ्यःपितृभ्यःश्रद्धया ततः॥२५
भुञ्जानाञ्श्रावयेद्विप्रान् राक्षोघ्नान् पितृलिङ्गकान्।
पुराणानि पवित्राणि ऋषिगीतां पितृस्तुतिम् ॥२६
अन्नं भोजनपर्याप्तं देयं किंचित्ततोऽधिकम् ।
तृप्तेषु श्रावयेत्तिस्रो मधुवाता ऋतायते ॥२७
अक्षन्निति च तान्विप्रान्संपन्नमिति च पृच्छति ।
         तेऽपि संपन्नमित्येवं प्रतिब्रूयुरतःपरम् ॥ २८
यद्यद्भुक्तं ततःकिंचित्किंचित्पिण्डार्थमुद्धरेत्।
पितृयज्ञचरोरन्नमुद्धृतं प्रक्षिपेदथ ॥२९
अन्नं प्रकिरणार्थे च सर्वस्मादन्नमुद्धरेत् ।
ब्राह्मणेभ्यस्ततःशिष्टं सर्वमन्नं निवेदयेत् ॥३०
तेऽपि स्वीकुर्युरिष्टं चेदनुजानन्ति वा पुनः।
पिण्डदानमनाचान्तेष्वाचान्तेष्वथवा भवेत् ॥३१
अम्भोनिनयनाद्यन्तं पितृयज्ञं समापयेत् ।
अन्नं प्रकिरणार्थाय तदानीय जलप्लुतम् ॥ ३२
आचान्तानां समीपे तु त्वग्रतःप्रकिरेद्भुवि ।
उत्तानं प्रथमं पात्रं कृत्वा यज्ञोपवीत्यथ ॥ ३३
दत्त्वा च दक्षिणां शक्त्या विसृजेदों स्वधोच्यताम् ।
ओं स्वधीते प्रतिब्रूयुर्याचेतेमान्वरान्पितॄन् ॥३४
दक्षिणां दिशमाकाङ्क्षन्नियतो वाग्यतःशुचिः।
            दातारो नोऽभिवर्धन्तां वेदाःसंततिरेव नः।
श्रद्धा च नो मा व्यगमद्भहुदेयं च नोऽस्त्विति ॥३६
            ब्रह्मचारी भवेत्तस्यां रजन्यां ब्राह्मणैःसह ॥३७
                   इति दर्शश्राद्धकारिकाः ।

No comments:

Post a Comment